हेला

सुधाव्याख्या

हिल भावकरणे' (तु० प० से०) । ‘हेडृ अनादरे’ (भ्वा० आ० से०) । भावे घञ् (३.३.१८) । 'स्याद्भावसूचको हावो हेलाऽस्यैवानुभावनम् । ‘प्रौढेच्छा सुरते हेला' इति वा । (‘हेला स्त्रियामवज्ञायां विलासे वारयोषिताम् ।