लीला

सुधाव्याख्या

लयनम् । ली: । ‘लीड् श्लेषणे’ (दि० आ० अ०) । संपदादित्वात् (वा० ३.३.१०८) क्विप् । लियं लाति । ‘ला आदाने (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः । (प्रियस्यानुकृतिर्लीला श्लिष्टा वाग्वेषचेष्टितैः । ‘लीला केलिर्विलासश्च शृङ्गारभावजा क्रिया' ।


प्रक्रिया

धातुः - लीङ् श्लेषणे , ला आदाने


लीङ् श्लेषणे
ली - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ली + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
ली + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ली - वेरपृक्तस्य 6.1.67
ला आदाने
ली + अम् + ला + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
ली + ला + क - सुपो धातुप्रातिपदिकयोः 2.4.71
ली + ला + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
ली + ल् + अ - आतो लोप इटि च 6.4.64
लील + टाप् - अजाद्यतष्टाप्‌ 4.1.4
लील + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
लीला - अकः सवर्णे दीर्घः 6.1.101
लीला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लीला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लीला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68