अमरकोशः


श्लोकः

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः । कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वरूप स्वरूपम् नपुंसकलिङ्गः स्वं रूपम् ॥ अकारान्तः
2 स्वभाव स्वभावः पुंलिङ्गः स्वो भावः ॥ अकारान्तः
3 निसर्ग निसर्गः पुंलिङ्गः विसर्जनम् । घञ् कृत् अकारान्तः
4 वेपथु वेपथुः पुंलिङ्गः वेपनम् । अथुच् कृत् उकारान्तः
5 कम्प कम्पः पुंलिङ्गः घञ् कृत् अकारान्तः
6 क्षण क्षणः पुंलिङ्गः क्षणोति दुःखम् । अच् कृत् अकारान्तः
7 उध्दर्ष उद्धर्षः पुंलिङ्गः उद्धर्षयति । अच् कृत् अकारान्तः
8 मह महः पुंलिङ्गः महनम् । घञ् कृत् अकारान्तः
9 उध्दव उद्धवः पुंलिङ्गः उद्धुनोति अच् कृत् अकारान्तः
10 उत्सव उत्सवः पुंलिङ्गः उद्धुनोति । अच् कृत् अकारान्तः