महः

सुधाव्याख्या

महनम् । ‘मह पूजायाम्' (भ्वा० प० से०) । घञ् (३.३.१८) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । घ: (३.३.११८) वा । यद्वा महति । अच् (३.१.१३४) । ‘मही नद्यन्तरे भूमौ मह उद्ध(त्स)वतेजसोः’ (यत्तु) मह्यतेऽनेन । पुंसि-’ (३.३.११८) इति घः इति मुकुटः । तन्न । 'हलश्च’ (३.३.१२९) इति घञ्प्रसङ्गात्