उद्धर्षः

सुधाव्याख्या

उद्धर्षयति । ‘हृषु अलीके' (भ्वा० प० से०) । णिजन्तः । अच् (३.१.१३४) । उद्गतो हर्षोऽत्रेति वा ।


प्रक्रिया

धातुः - हृषुँ अलीके


हृष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत् + हृष् + णिच् - हेतुमति च 3.1.26
उत् + हृष् + इ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उत् + हर्ष् + इ - पुगन्तलघूपधस्य च 7.3.86
उत् + हर्ष् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
उत् + हर्ष् + अच् - णेरनिटि 6.4.51
उत् + हर्ष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उत् + धर्ष् + अ - झयो होऽन्यतरस्याम् 8.4.62
उद् + धर्ष् + अ - झलां जश् झशि 8.4.53
उद्धर्ष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उद्धर्ष + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उद्धर्ष + रु - ससजुषो रुः 8.2.66
उद्धर्ष + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उद्धर्षः - खरवसानयोर्विसर्जनीयः 8.3.15