अमरकोशः


श्लोकः

तन्द्री प्रमीला भ्रकुटिर्भ्रुकुटिर्भ्रूकुटि: स्त्रियाम् । अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृती त्विमे ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तन्द्री तन्द्री स्त्रीलिङ्गः तन्द्रायाः करणम् । इः उणादिः ईकारान्तः
2 प्रमीला प्रमीला स्त्रीलिङ्गः प्रमीलनम् । अः कृत् आकारान्तः
3 भ्रकुटि भ्रकुटिः स्त्रीलिङ्गः इन् उणादिः इकारान्तः
4 भ्रुकुटि भ्रुकुटिः स्त्रीलिङ्गः इन् उणादिः इकारान्तः
5 भ्रूकुटि भ्रूकुटिः स्त्रीलिङ्गः इन् उणादिः इकारान्तः
6 अदृष्टि अदृष्टिः स्त्रीलिङ्गः विरुद्धा दृष्टिः । नञ् समासः समासः इकारान्तः
7 संसिद्धि संसिद्धिः स्त्रीलिङ्गः असौम्येऽसुन्दरे । क्तिन् कॄदन्तः इकारान्तः
8 प्रकृति प्रकृतिः स्त्रीलिङ्गः प्रकरणम् । क्तिन् कृत् इकारान्तः