तन्द्री

सुधाव्याख्या

तत्पूर्वाद्रातेः ‘स्पृहिगृहि-’ (३.२.१५८) इत्यादिना ‘तन्द्रा' इति निपात्यते । तन्द्रायाः करणम् । ’तत्करोति (वा० ३.१.२६) इति ण्यन्ताद् अच इः’ (उ० ४.१३९) । तन्द्रिः । ‘कृदिकारात्-' (ग० ४.१.४५) इति डीष् वा । 'तन्द्री निद्राप्रमीलयोः । णिजभावे ‘तन्द्रा' इत्यपि । मुकुटस्तु इन्द्रियाणां तननं द्रात्यस्याम् । तन्द्रधातोः सौत्रान्मूर्च्छार्थात् ‘तन्द्रेरिदीतौ’ इति हस्वेकारप्रत्यये तन्द्रिः । ङीषि तन्द्री । दीर्घेकारप्रत्यये लक्ष्मीशब्दवच्च इत्याह । तन्न । द्रातिना विगृह्य सौत्रधातोरुपन्यासस्य विरुद्धत्वात् । ’तदो नान्तत्वनिपातनाभ्युपगमविरोधात् । ‘तन्द्रेरिदीतौ इति सूत्रस्यादर्शनाच्च । ईप्रत्ययविधायकाभावाच्च । (यदपि) 'तन्द्रिस्तन्द्री तन्द्रीस्तन्द्रा’ इति रूपचतुष्टयम् । इत्युक्तम् । तदपि न । दीर्घविसर्गान्ते प्रमाणाभावात् ।


प्रक्रिया

धातुः -द्रा कुत्सायां गतौ


तत् + द्रा - स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् 3.2.158
तन्द्रा - स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् 3.2.158 इति निपातनात् ।
तन्द्रा + णिच् - तत्करोति तदाचष्टे (3.1.26) । वार्तिकम् ।
तन्द्रा + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तन्द्र् + इ + इ - अच इः (४.१३९) । उणादिसूत्रम् ।
तन्द्र् + इ - णेरनिटि 6.4.51
तन्द्रि + ङीष् - कृदिकारादक्तिनः (4.1.45) । गणसूत्रम् ।
तन्द्रि + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तन्द्र् + ई - यस्येति च 6.4.148
तन्द्री + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तन्द्री + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तन्द्री - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68