अमरकोशः


श्लोकः

चतुर्दश दरस्त्रासौ भीतिर्भीः साध्वसं भयम् । विकारो मानसो भावोऽनुभावो भावबोधकः ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दर दरः पुंलिङ्गः, नपुंसकलिङ्गः दीर्यतेऽस्मात् । अप् कृत् अकारान्तः
2 त्रास त्रासः पुंलिङ्गः, नपुंसकलिङ्गः घञ् कृत् अकारान्तः
3 भीति भीतिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
4 भी भीः स्त्रीलिङ्गः क्विप् कृत् ईकारान्तः
5 साध्वस साध्वसम् नपुंसकलिङ्गः 'साधूनामसनम्' । अच् अकारान्तः
6 भय भयम् नपुंसकलिङ्गः अच् कॄदन्तः अकारान्तः
7 भाव भावः पुंलिङ्गः मनोविकारो रत्यादिर्भावः । अकारान्तः
8 अनुभाव अनुभावः पुंलिङ्गः अच् कृत् अकारान्तः