भयम्

सुधाव्याख्या

'अज्विधौ भयादीनामुपसंख्यानम्' (वा० ३.३.५६) । ‘भयं भीतौ भयंकरे । कुब्जकपुष्पे’ इति हैमः॥ बाहुलकादङि भिया । 'स्यादर्तनमृतीया च गर्ह, चाथ भयं भिया । (त्रासो त्रासौ दरौ भीतमातङ्गो भीश्च साध्वसम्)’ इति शब्दार्णवात् । (‘आशङ्का साध्वसं दरः । भिया च' इति हैमाच्च ॥


प्रक्रिया

धातुः - ञिभी भये


भी - आदिर्ञिटुडवः 1.3.5
भी + अच् - भयादीनामुपसङ्ख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम् (3.3.56) । वार्तिकम् ।
भी + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भे + अ - सार्वधातुकार्धधातुकयोः 7.3.84
भय् +अ - एचोऽयवायावः 6.1.78
भय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भय + अम् - अतोऽम् 7.1.24
भयम् - अमि पूर्वः 6.1.107