अमरकोशः
त्रासः
सुधाव्याख्या
‘त्रसी उद्वेगे’ (दि० प० से०) । घञ् (३.३.१८) ‘त्रासो भये मणेर्दोषे’ इति हैमः॥
प्रक्रिया
धातुः -
त्रसीँ उद्वेगे
त्रस्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
त्रस् + घञ्
-
भावे 3.3.18
त्रस् + अ
-
हलन्त्यम् 1.3.3
,
लशक्वतद्धिते 1.3.8
,
तस्य लोपः 1.3.9
त्रास् + अ
-
अत उपधायाः 7.2.116
त्रास + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
त्रास + स्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
त्रास + रु
-
ससजुषो रुः 8.2.66
त्रास + र्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
त्रासः
-
खरवसानयोर्विसर्जनीयः 8.3.15
Find words details involved in this Prakriya