अमरकोशः


श्लोकः

पारुष्यमतिवादः स्याद् भर्त्सनं त्वपकारगीः । यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पारुष्य पारुष्यम् नपुंसकलिङ्गः परुषो निष्ठुरभाषी । ष्यञ् तद्धित अकारान्तः
2 अतिवाद अतिवादः पुंलिङ्गः अतिक्रम्योक्तिरतिवादः अकारान्तः
3 भर्त्सन भर्त्सनम् नपुंसकलिङ्गः ल्युट् कॄदन्तः अकारान्तः
4 अपकारगिर् अपकारगीः स्त्रीलिङ्गः रेफान्तः
5 परिभाषण परिभाषणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः