परिभाषणम्

सुधाव्याख्या

य इति । उपालम्भो द्वेधा । गुणाविष्करणपूर्वको निन्दापूर्वकश्च । आद्यो यथा महाकुलीनस्य तव किमुचितमिदम् । द्वितीयस्तु ‘बन्धकीसुतस्य तवोचितमेवेदम्’ इति । तत्र यो द्वितीयः स परिभाषणम् । ‘भाष व्यक्तायां वाचि' (भ्वा० आ० से०) । ल्युट् (३.३.११५) ॥ अप्रत्यये (३.३.१०२) ‘परिभाषा' अपि । ‘परिभाषाश्च ततो भविष्यन्ति' इति 'हेतुमति च’ (३.१.२६) इति सूत्रे भाष्यात् । ’परिभाषणं सनिन्दोपालम्भे नियमेऽपि च' ।