अमरकोशः


श्लोकः

मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् । रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मोक्ष मोक्षः पुंलिङ्गः एरच् कृत् अकारान्तः
2 अपवर्ग अपवर्गः पुंलिङ्गः अपवर्जनम् । घञ् कृत् अकारान्तः
3 अज्ञान अज्ञानम् नपुंसकलिङ्गः ज्ञानविरुद्धम् । तत्पुरषः समासः अकारान्तः
4 अविद्या अविद्या स्त्रीलिङ्गः अविद्या विद्याविरुद्धा । तत्पुरषः समासः आकारान्तः
5 अहंमति अहंमतिः स्त्रीलिङ्गः अहंप्रधाना मतिः इकारान्तः
6 रूप रूपम् नपुंसकलिङ्गः रोपयति विमोहयति । अच् कृत् अकारान्तः
7 शब्द शब्दः पुंलिङ्गः शप्यते आकृश्यते । अच् कृत् अकारान्तः
8 गन्ध गन्धः पुंलिङ्गः गन्धयति । अच् कृत् अकारान्तः
9 रस रसः पुंलिङ्गः रस्यते । एरच् कृत् अकारान्तः
10 स्पर्श स्पर्शः पुंलिङ्गः घञ् कृत् अकारान्तः