रसः

सुधाव्याख्या

रस्यते । 'रस आस्वादने’ (चु० प० से०) । चुरादिः । ‘एरच्' (३.३५६) । घञ् (३.३.१८) वा । ‘रसो गन्धरसे जले । ‘शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान्’ इति हैमः ।