रूपम्

सुधाव्याख्या

रूपमिति । रोपयति विमोहयति । ‘रुपु विमोहने’ (दि० प० से०) । अच् (३.३.१३४) । ‘अन्येषामपि-’ (६.३.१३७) इति दीर्घः । यद्वा 'रूप रूपकरणे’ (चु० उ० से०) इति चौरादिकस्यायमप्यर्थः । यद्वा रूयते स्तूयते । ‘रु शब्दे (अ० प० अ०) 'खष्पशिल्प-(उ० ३.२८) इति पप्रत्ययो दीर्घश्च निपातितः । ‘रूपं तु श्लोकशब्दयोः पशावाकाशे सौन्दर्ये, नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च' इति हैमः ।