अमरकोशः


श्लोकः

मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मिथ्यादृष्टि मिथ्यादृष्टिः स्त्रीलिङ्गः मिथ्या इत्यपह्नवे । तद्विषयिणी दृष्टिः । तत्पुरुषः समासः इकारान्तः
2 नास्तिकता नास्तिकता स्त्रीलिङ्गः नास्ति परलोक इति मतिरस्य । ठक् तद्धितः आकारान्तः
3 व्यापाद व्यापादः पुंलिङ्गः घञ् कृत् अकारान्तः
4 द्रोहचिन्तन द्रोहचिन्तनम् नपुंसकलिङ्गः द्रोहस्य चिन्तनम् । तत्पुरषः समासः अकारान्तः
5 सिद्धान्त सिद्धान्तः पुंलिङ्गः सिद्धोऽन्तो निश्चयो यस्मिन् । बहुव्रीहिः समासः अकारान्तः
6 राद्धान्त राद्धान्तः पुंलिङ्गः राद्धः सिद्धोऽन्तो निश्चयोऽस्मिन् । बहुव्रीहिः समासः अकारान्तः
7 भ्रान्ति भ्रान्तिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
8 मिथ्यामति मिथ्यामतिः स्त्रीलिङ्गः तत्पुरुषः समासः इकारान्तः
9 भ्रम भ्रमः पुंलिङ्गः घञ् कृत् अकारान्तः