द्रोहचिन्तनम्

सुधाव्याख्या

द्रोहस्य चिन्तनम् । ‘ल्युट् च’ (३.३.११५) । बाहुलकाल्ल्युट् - इति मुकुटः । तन्न । स्त्रीत्वविशिष्टे भावे अङः (३.३.१०५) विहितत्वेन नपुंसकत्वविशिष्टे भावे ल्युटो निरपवादत्वात् ।