अमरकोशः


श्लोकः

कलाहीने सानुमतिः पूर्णे राका निशाकरे । अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनुमति अनुमतिः स्त्रीलिङ्गः अनुमन्यते-अनुमतिः । क्तिच् कृत् इकारान्तः
2 राका राका स्त्रीलिङ्गः राति शुभम् । उणादिः आकारान्तः
3 अमावास्या अमावास्या स्त्रीलिङ्गः अमा सह वसतोऽस्यां चन्द्रार्कौ । तत्पुरुषः समासः आकारान्तः
4 अमावस्या अमावस्या स्त्रीलिङ्गः अमा सह वसतोऽस्यां चन्द्रार्कौ । तत्पुरुषः समासः आकारान्तः
5 दर्श दर्शः पुंलिङ्गः दृश्यते शास्त्रेण । कृत् अकारान्तः
6 सूर्येन्दुसंगम सूर्येन्दुसंगमः पुंलिङ्गः सूर्येन्दू संगच्छतोऽस्मिन् । बहुव्रीहिः समासः अकारान्तः