अमावस्या

सुधाव्याख्या

अमेति । अमा सह वसतोऽस्यां चन्द्रार्कौ । 'अमावास्यदन्यतरस्याम्' (३.१.१२२) इति ण्यत्, पक्षे वृद्धयभावश्च निपात्यते । नामैकदेशे नामग्रहणात् ‘अमा’ अपि वसतेरिन्प्रत्यये (उ० ४.११८) ततो डीषि (ग० ४.१.४५) अमावसी । ‘इणजादिभ्यः’ (वा० ३.३.१०८) इतीणि अमावासी ॥ ‘मसी परिणामे’ (दि० प० से०) । अमा चन्द्रसूर्यौ साहचर्येण मस्यतपरिच्छिन्तोऽस्यां मासम् । अमामासी । इण् (वा० ३.३.१०८) । अमामसी । इन् (उ० ४.११८) । 'दशोमाऽमावसी च स्यात् इति रभसः । अप्यमावस्यमावासी चामामस्यप्यमामसी’ इति शब्दार्णवः


प्रक्रिया

वस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अमा + टा + वस् + ण्यत् - अमावस्यदन्यतरस्याम् 3.1.122, उपपदमतिङ् 2.2.19
अमा + वस् + ण्यत् - सुपो धातुप्रातिपदिकयोः 2.4.71
अमा + वस् + य - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अमावस्य - अमावस्यदन्यतरस्याम् 3.1.122 – अन्यतरस्याम् इत्युक्तत्वात् वृद्ध्यभावो निपात्यते ।
अमावस्य + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अमावस्य + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अमावस्या - अकः सवर्णे दीर्घः 6.1.101
अमावस्या + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अमावस्या + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अमावस्या - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68