अमावास्या

सुधाव्याख्या

अमेति । अमा सह वसतोऽस्यां चन्द्रार्कौ । 'अमावास्यदन्यतरस्याम्' (३.१.१२२) इति ण्यत्, पक्षे वृद्धयभावश्च निपात्यते । नामैकदेशे नामग्रहणात् ‘अमा’ अपि वसतेरिन्प्रत्यये (उ० ४.११८) ततो डीषि (ग० ४.१.४५) अमावसी । ‘इणजादिभ्यः’ (वा० ३.३.१०८) इतीणि अमावासी ॥ ‘मसी परिणामे’ (दि० प० से०) । अमा चन्द्रसूर्यौ साहचर्येण मस्यतपरिच्छिन्तोऽस्यां मासम् । अमामासी । इण् (वा० ३.३.१०८) । अमामसी । इन् (उ० ४.११८) । 'दशोमाऽमावसी च स्यात् इति रभसः । अप्यमावस्यमावासी चामामस्यप्यमामसी’ इति शब्दार्णवः ।