अमरकोशः


श्लोकः

गणरात्रं निशा बह्व्यः प्रदोषो रजनीमुखम् । अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गणरात्र गणरात्रम् नपुंसकलिङ्गः गणानां बह्वीनां रात्रीणां समाहारः । द्विगुः समासः अकारान्तः
2 प्रदोष प्रदोषः पुंलिङ्गः प्रारम्भो दोषाया: । तत्पुरुषः समासः अकारान्तः
3 रजनीमुख रजनीमुखम् नपुंसकलिङ्गः रजन्या मुखमिव । बहुव्रीहिः समासः अकारान्तः
4 अर्धरात्र अर्धरात्रः पुंलिङ्गः अर्धं रात्रेः । तत्पुरुषः समासः अकारान्तः
5 निशीथ निशीथः पुंलिङ्गः निशेरतेऽस्मिन् । थक् उणादिः अकारान्तः
6 याम यामः पुंलिङ्गः याति । मन् उणादिः अकारान्तः
7 प्रहर प्रहरः पुंलिङ्गः प्रह्रीयते ढक्कादिरस्मिन् । कृत् अकारान्तः