प्रदोषः

सुधाव्याख्या

दुष्यति । ‘दुष वैकृत्ये’ (दि० पं० अ०) पचाद्यच् (३.१.१३४) । टाप् (४.१.४) । (‘दोषा रात्रौ भुजेऽपि च') । प्रारम्भो दोषाया: । प्रादिसमासः (२.२.१८) प्रारब्धा दोषा यस्मिन्निति वा । ‘गोस्त्रियोः-' (१.२.४८) इति ह्रस्वः । । ‘दोषा’ इत्यव्ययमप्यस्ति । 'नक्तं दोषा च रजनौ’ इति वक्ष्यते । (‘प्रदोषः कालदोषयोः)