गणरात्रम्

सुधाव्याख्या

गणानां बह्वीनां रात्रीणां समाहारः । गणशब्दस्य संख्यात्वात् (१.१.२३) तद्धितार्थ-’(२.१.५१) इति द्विगुः । ‘अहःसर्वैकदेश-' (५.४.८७) इत्यच् । रात्राह्नाहाः पुंसि’ (२.४.२९) इति पुंस्त्वं तु न । ‘संख्यापूर्वा रात्रिः’ इति लिङ्गानुशासनसूत्रेण क्लीबत्वविधानात् । ‘भवति नपुंसकयोगः संख्यापूर्वस्य रात्रशब्दस्य’ इति वररुचिवचनाच्च । ‘रात्रं प्राक् संख्ययान्वितम्’ इति वक्ष्यमाणत्वाच्च । एतेन स्वामिमुकुटयोर्नपुंसकत्वसमर्थनसंभ्रमः परास्त: ।