अमरकोशः


श्लोकः

मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । संवर्त: प्रलय: कल्पः क्षय: कल्पान्त इत्यपि ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मन्वन्तर मन्वन्तरम् नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
2 संवर्त संवर्तः पुंलिङ्गः संवर्तते जगदत्र । घञ् कृत् अकारान्तः
3 प्रलय प्रलयः पुंलिङ्गः प्रलीयतेऽत्र । अच् कृत् अकारान्तः
4 कल्प कल्पः पुंलिङ्गः कल्प्यन्ते विरुद्धलक्षणया क्षीयन्तेऽत्र । कृत् अकारान्तः
5 क्षय क्षयः पुंलिङ्गः क्षीयन्ते प्राणिनोऽत्र । अच् कृत् अकारान्तः
6 कल्पान्त कल्पान्तः पुंलिङ्गः कल्पस्यान्तोऽवधिः । तत्पुरुषः समासः अकारान्तः