क्षयः

सुधाव्याख्या

क्षीयन्ते प्राणिनोऽत्र । ‘क्षि क्षये’ (भ्वा० प० से०) । 'एरच्' (३.३.५६) । ‘पुंसि (३.३.११८) इति घो वा । क्षयो गेहे च कल्पान्तेऽपचये रुजि: इति हैमः ।