प्रलयः

सुधाव्याख्या

प्रलीयतेऽत्र । 'लीङ् श्लेषणे’ (दि० आ० अ०) । 'एरच्' (३.३५६) । प्रलयो मृतौ । ‘संहारे नष्टचेष्टत्वे’ इति हैम: ।