अमरकोशः


श्लोकः

मासेन स्यादहोरात्र: पैत्रो वर्षेण दैवतः । दैवे युगसहस्रे द्वे ब्राह्मौ कल्पौ तु तौ नृणाम् ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पैत्र पैत्रः पुंलिङ्गः पितृणामयं पैत्रोऽहोरात्रः तत्र कृष्णपक्षो दिनम् । अण् तद्धितः अकारान्तः
2 दैवत दैवतः पुंलिङ्गः देवतानामयं दैवतोऽहोरात्रः । अण् तद्धितः अकारान्तः
3 ब्राह्म ब्राह्मः पुंलिङ्गः देवानां युगसहस्रद्वयेन ब्रह्मणोऽयम् । अण् तद्धितः अकारान्तः
4 कल्प कल्पः पुंलिङ्गः ये दैवे युगसहस्रे तौ । कल्पयतः स्थितिं प्रलयं च । अच् कृत् अकारान्तः