ब्राह्मः

सुधाव्याख्या

देवानां युगसहस्रद्वयेन ब्रह्मणोऽयम् । ‘ब्राह्मोऽजातौ’ (६.४.१७१) ब्राह्मोऽहोरात्रः । दैवैः षष्ठ्यधिकैस्त्रिभिरहोरात्र शतैर्दिव्यं वर्षम् । तैर्द्वादशभिः सहस्त्रैर्मानुषं चतुर्युगम् । तच्च देवानामेकं युगम् । तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थितिकालः तावत्येव रात्रिः प्रलयकालः ।