वेशः

सुधाव्याख्या

वेश इति । विशन्त्यत्र । विश प्रवेशने' (तु० प० अ०) । 'हलश्च’ (३.३.१२१) घञ् । 'नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च' इति तालव्यान्ते रभसः । ‘गृहमात्रे गणिकायाः सद्मनि वेशो भवेत्तु तालव्यः । तालव्यो मूर्धन्योऽलंकरणे कथित आचार्यैः’ इत्यूष्मविवेकः ।