पण्यवीथिका

सुधाव्याख्या

पण्यानां वीथी । स्वार्थे कन् (५.३.७५) ॥ द्वे हट्टशून्यविक्रयस्थानस्य । हट्टमार्गस्य इति स्वामी । 'आपणः पण्यवीथी च द्वयं वीथीति संज्ञितम्’ इति शाश्वतः । आपण: पण्यवीथ्यां च पण्ये च विपणिः स्त्रियाम्' इति रभसः । द्वयं क्रय्यवस्तुशालापङ्क्तेः ।