पुरी

सुधाव्याख्या

यदपि- ‘पृ पालने इत्यस्माद् ऋदोरप्' (३.३५७) । पूर्वविप्रतिषेधेन गुणादुत्वम् - इत्युक्तम् । तदपि न । पूर्वविप्रतिषेधे प्रमाणाभावात् । पिपर्ति इत्यादावतिप्रसङ्गाच्च । पुरति । ‘इगुपध-' (३.१.१३५) इति कः । कर्मणः कर्तृत्वविवक्षात्र । गौरादित्वात् (४.१.४१) ‘जाते:- (४.१.६३) इति वा ङीष् ॥