पुटभेदनम्

सुधाव्याख्या

पुटानि पात्राणि भिद्यन्तेऽत्र । भिदिर् विदारणे’ (रु० उ० अ०) । अधिकरणे ल्युट् (३.३.११७) इति मुकुटः । तन्न । हलश्च (३.३.१२१) इति घञो ल्युडपवादत्वात् । युच् (उ० २.७८) तूचितः ॥


प्रक्रिया

धातुः - भिदिँर् विदारणे


भिद् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
पुट + जस् + भिद् + युच् – बहुलमन्यत्रापि (२.७८) । उणादिसूत्रम् ।, उपपदमतिङ् 2.2.19
पुट + भिद् + युच् सुपो धातुप्रातिपदिकयोः 2.4.71
पुट + भिद् + यु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पुट + भिद् + अन - युवोरनाकौ 7.1.1
पुटभेदन - पुगन्तलघूपधस्य च 7.3.86
पुटभेदन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पुटभेदन + अम् - अतोऽम् 7.1.24
पुटभेदनम् - अमि पूर्वः 6.1.107