शुण्डा

सुधाव्याख्या

- श्विति । शुन्यते । ‘शुन गतौ’ (तु० प० से०) । ‘ञमन्ताड्डः' (उ० १.११२) । ‘शुण्डा पानगृहे मता । (अप्यम्बुहस्तिनीवेश्याहस्तिहस्तसुरासु च' इति मेदिनी) । ‘(शुण्डापि जलहस्तिन्यां मदिराकरिहस्तयोः । नलिन्यां वारयोषायां शुण्डस्तु मदनिर्झरे )' इति विश्वः ॥


प्रक्रिया

धातुः -


शुनँ गतौ
शुन् + ड – उणादिसूत्रम् । १.११२
शुण्ड - ष्टुना ष्टुः 8.4.41
शुण्डा (टाप्) - अजाद्यतष्टाप्‌ 4.1.4
शुण्डा (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68