राजवान्

सुधाव्याख्या

सुराज्ञीति । शोभनो राजा यत्र । –‘न पूजनात्’ (५.४.६९) इति टचोऽभावः—इति मुकुटः । तन्न । बहुव्रीहौ टचोऽप्रसङ्गात् । मतुप् (५.२.९४) । प्रशंसायाम् (वा० ५.२.९४) राजन्वान्सौराज्ये’ (८.२१४) इति साधु । (१) तत इति । अन्यत्र राजमात्रयुक्तदेशे । एकम् सामान्यराजयुक्तदेशस्य ।