गोष्ठम्

सुधाव्याख्या

गोष्ठमिति । गावस्तिष्ठन्ति यत्र । ‘घञर्थे-' (वा० ३.३.५८) इति कः । ‘अम्बाम्ब-' (८.३.९७) इति षत्वम् । ‘गोष्ठं गोस्थानके, गोष्ठी सभासंलापयोः स्त्रियाम् ॥