माहेयी

सुधाव्याख्या

मेति । ‘गौरुस्रा प्रिया इला मही' इति निरुक्तम् । मह्या अपत्यं स्त्री । ‘स्त्रीभ्यो ढक्’ (४.१.१२०) ।-मह्यते । ‘मह पूजायाम्' (भ्वा० प० से०) । ‘पुंसि-' (३.३.११८) इति घः । ‘खनो घ च' (३.३.१२५) इति वा । महाया अपत्यम् इति तु स्वामी ॥