उस्रा

सुधाव्याख्या

वसति क्षीरमस्याम् । ‘वस निवासे' (भ्वा० प० अ०) । ‘स्फायि-' (उ० २.१३) इति रक् । ‘वचिस्वपि-' (६.१.१५) इति वस्य उः । ‘न रपर-' (८.३.११०) इति षत्वाभावः । ‘उस्रो वृषे च किरणेऽप्युस्रार्जुन्युपचित्रयोः' (इति मेदिनी) । ‘उस्रस्तु वृषभे प्रोक्तः किरणे च तथा पुमान्' ॥