सपीतिः

सुधाव्याख्या

सेति । पानम् । ‘पा पाने' (भ्वा० प० अ०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । ‘घुमास्था-' (६.४.६६) इतीत्वम् । समाना पीतिः । समानस्य छन्दसि-' (६.३.८४) इति सभावः । सह पीतिर्वा । ‘सहस्य सः संज्ञायाम्' (६.३.७८) ॥