सग्धिः

सुधाव्याख्या

सेति । अदनम् । ‘अद भक्षणे' (अ० प० अ०) । क्तिन् (३.३.९४) ‘बहुलं छन्दसि’ (२.४.३९) इति घस् । ‘घसि भसोर्हलि च’ (६.४.१००) इत्युपधालोपः । ‘झलो झलि' (८.२.२६) इति सलोपः । ‘झषस्तथोऽधः’ (४.२.४०) । ‘झलां जश् झशि' (८.४.५३, भा० ५९) इति घस्य गः । समाना ग्धिः पूर्ववत् ॥


प्रक्रिया

धातुः -


अदँ भक्षणे
अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अद् + क्तिन् - स्त्रियां क्तिन् 3.3.94
अद् + ति - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
घस् + ति - बहुलं छन्दसि 2.4.39
घ् + स् + ति - घसिभसोर्हलि च 6.4.100
घ् + ति - झलो झलि 8.2.26
घ् + धि - झषस्तथोर्धोऽधः 8.2.40
ग् + धि - झलां जश् झशि 8.4.53
समाना ग्धि - पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च 2.1.58
स ण्धि - समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु 6.3.84
सग्धि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सग्धि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सग्धि + रु - ससजुषो रुः 8.2.66
सग्धि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सग्धिः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D