वाल्हीकम्

सुधाव्याख्या

वल्हीकेषु भवम् । 'तत्र भवः' (४.३.५३) इत्यण् । ह्रस्वमध्यमपि । (अथ) वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् । (वाल्हीकवत्) (इति हैमः) ॥