रामठः

सुधाव्याख्या

रामठदेशोद्भवत्वादुपचारः । रमन्तेऽनेन वा । ‘रमु क्रीडायाम्’ (भ्वा० आ० अ०) । ‘रमेर्वृद्धिश्च' (उ० १.१०१) इत्यठः । -रमयति । बाहुलकादठः-इति मुकुटश्चिन्त्यः । 'रमेर्वृद्धिश्च' इति सूत्रस्य सत्वात् ॥