उपसम्पन्नम्

सुधाव्याख्या

उपसम्पद्यते स्म । ‘पद गतौ' (दि० आ० अ०) । ‘गत्यर्था-' (३.४.७२) इति क्तः । ‘उपसंपन्नमुद्दिष्टं निहते च सुसंस्कृते' इति विश्वः (मेदिनी) ॥