गुणा

सुधाव्याख्या

गुणयते । ‘गुण निमन्त्रणे’ (चु० उ० से०) । अदन्तः । अच् (३.१.१३४) । ‘गुणो मौर्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादिसंध्यादिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि बुद्ध्यां च’ (इति मेदिनी) ॥