सूदा

सुधाव्याख्या

सूदन्ति छागादीन् । ‘षूद हिंसायाम् (चु० उ० से०) । अच् (३.१.१३४) । कः (३.१.१३५) वा । ‘सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे’ इति विश्वमेदिन्यौ ॥