लोष्टम्

सुधाव्याख्या

लविति । लोष्टति । ‘लोष्ट सङ्घाते’ (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) पुंलिङ्गोऽप्ययम् । ‘लेष्टुः शण्डे(ठे)ऽपि लोष्टः स्यात्’ इति वोपालितः ॥