वर्तनम्

सुधाव्याख्या

वर्तन्ते जीवन्त्यनेन । ल्युट् (३.३.११७) । ‘वर्तनो वामने क्लीबं वृत्तौ स्त्री पेषणाध्वनोः । न पुंसि तूलनालायां तर्कुपिण्डे च जीवने । वर्तिष्णौ त्रिषु’ (इति मेदिनी) ॥