जीविका

सुधाव्याख्या

जीव्यतेऽनया । ‘गुरोश्च हलः’ (३.३.१०३) इत्यः । ‘संज्ञायां कन्’ (५.३.७५) । क्वुन् (उ० २.३२) वा । ‘जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चशीर्षे च पुंसि स्यादाजीवे जीविका मता । त्रिषु सेविनि वृद्ध्याशीर्जीविनोराहितुण्डिके’ (इति मेदिनी) ॥