पाटलः

सुधाव्याख्या

पाटं लाति । कः (३.२.३) । पाटलो वर्णोऽस्यास्ति, इति वा ॥ पाटलः, व्रीहिः, आशु च इति नामत्रयम् । आशुनामा ब्रीहिः पाटल उच्यते इति नामद्वयम् इति सुभूतिः । आशुव्रीहौ पाटलो ना श्वेतरक्तेऽन्यलिङ्गवान्’ इति रुद्रः ॥