आशुः

सुधाव्याख्या

आश्विति । अश्नुते । ‘अशू व्याप्तौ’ (स्वा० आ० से०) । कृवापा-' (उ० १.१) इत्युण् । ‘आशुस्तु व्रीहिशीघ्रयोः इति हैमचन्द्रः । तृणबीजं तु श्यामाको, व्रीहिराशु च पाटलः इति (पर्याये) क्लीबमाशु । आशु स्याद्व्रीहिशीघ्रयोः’ इति रत्नमालायामपि क्लीबम् ॥