सारसनम्

सुधाव्याख्या

येति । सारं सनोति । ‘षणु दाने' (तु० प० से०) । कर्मणः शेषत्वविवक्षायामच् (३.१.१३४) । यद्वा सारं बलमस्यते दीप्यतेऽनेन । ‘अस गतिदीप्त्यादानेषु’ (भ्वा० उ० से०) । ‘करणा-’ (३.३.११७) इति ल्युट् । शकन्ध्वादिः (वा० ६.१.९४) । 'सारसनमप्युरस्त्रे तनुत्रिणां मेखलायां च' (इति मेदिनी) । विश्वोऽपि-'सारसनं मेखलायामुरस्त्रे च तनुत्रिणाम् इति ॥